६.९४.१

तमापतन्तं सहसा स्वनवन्तं महाध्वजम् ।
रथं राक्षसराजस्य नरराजो ददर्श ह ॥

पदच्छेदः

तम्तद् (२.१)
आपतन्तंआपतत् (√आ-पत् + शतृ, २.१)
सहसासहसा (अव्ययः)
स्वनवन्तंस्वनवत् (२.१)
महाध्वजम्महत्–ध्वज (२.१)
रथंरथ (२.१)
राक्षसराजस्यराक्षस–राज (६.१)
नरराजोनर–राज (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा न्तं सा
स्व न्तं हाध्व जम्
थं राक्ष रास्य
रा जोर्श