६.९४.२

कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।
शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् ॥

पदच्छेदः

कृष्णवाजिसमायुक्तंकृष्ण–वाजिन्–समायुक्त (√समा-युज् + क्त, २.१)
युक्तंयुक्त (√युज् + क्त, २.१)
रौद्रेणरौद्र (३.१)
वर्चसावर्चस् (३.१)
तडित्पताकागहनंतडित्–पताका–गहन (२.१)
दर्शितेन्द्रायुधायुधम्दर्शित (√दर्शय् + क्त)–इन्द्रायुध–आयुध (२.१)
शरधाराशर–धारा (२.३)
विमुञ्चन्तंविमुञ्चत् (√वि-मुच् + शतृ, २.१)
धारासारम्धारा–सार (२.१)
इवाम्बुदम्इव (अव्ययः)–अम्बुद (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
कृष्ण वाजि मा यु क्तं यु क्तं रौ द्रे
र्च सा डित्प ता का नं
र्शि ते न्द्रायु धायु धम् धा रा
वि मु ञ्च न्तं धा रा सामि वान्बु दम्