६.९४.२९

ततो निरीक्ष्यात्मगतानि राघवो; रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृतिं; चकार युद्धेऽभ्यधिकं च विक्रमम् ॥

M N Dutt

Thereupon beholding all those auspicious signs, Raghava, well qualified to decipher them attained an excess of delight an became anxious to display a greater prowess.

पदच्छेदः

ततोततस् (अव्ययः)
निरीक्ष्यात्मगतानिनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)–आत्मन्–गत (√गम् + क्त, २.३)
राघवोराघव (१.१)
रणेरण (७.१)
निमित्तानिनिमित्त (२.३)
निमित्तकोविदःनिमित्त–कोविद (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
हर्षंहर्ष (२.१)
(अव्ययः)
परांपर (२.१)
(अव्ययः)
निर्वृतिंनिर्वृति (२.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
युद्धेयुद्ध (७.१)
ऽभ्यधिकंअभ्यधिक (२.१)
(अव्ययः)
विक्रमम्विक्रम (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तोनि री क्ष्यात्म तानि रा वो
णेनि मि त्तानिनि मित्त कोवि दः
गा र्षं रां निर्वृ तिं
का यु द्धेऽभ्यधि कं विक्र मम्