६.९४.४

मातले पश्य संरब्धमापतन्तं रथं रिपोः ।
यथापसव्यं पतता वेगेन महता पुनः ।
समरे हन्तुमात्मानं तथानेन कृता मतिः ॥

अन्वयः

मातले Matali, सम्रद्धम् hurrying, आपतन्तम् darting forward, रिपोः enemy, रथम् chariot, पश्य seeing, अपसव्यम् in reverse direction, महता great, वेगेन with speed, पुनः once again, पतता causing a fall, समरे in war, आत्मानम् himself, हन्तुम् to kill, यथा that way, तथानेन like that, मतिः mind, कृता strikes me

M N Dutt

O Mătalī, behold the enraged chariot of my foe as it course on. From the furious speed with which he is again wheeling at my right, it appear that he has set his heart of slaying me in encouter.

Summary

"Matali! the enemy's chariot is darting forward hurriedly. See him coming in the reverse direction with great speed once again. It strikes my mind that he is surely causing his fall."

पदच्छेदः

मातलेमातलि (८.१)
पश्यपश्य (√पश् लोट् म.पु. )
संरब्धम्संरब्ध (२.१)
आपतन्तंआपतत् (√आ-पत् + शतृ, २.१)
रथंरथ (२.१)
रिपोःरिपु (६.१)
यथापसव्यंयथा (अव्ययः)–अपसव्य (२.१)
पततापतत् (√पत् + शतृ, ३.१)
वेगेनवेग (३.१)
महतामहत् (३.१)
पुनःपुनर् (अव्ययः)
समरेसमर (७.१)
हन्तुम्हन्तुम् (√हन् + तुमुन्)
आत्मानंआत्मन् (२.१)
तथानेनतथा (अव्ययः)–इदम् (३.१)
कृताकृत (√कृ + क्त, १.१)
मतिःमति (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मा लेश्य संब्ध मा न्तं
थंरि पोः था व्यं ता
वे गे तापु नः रे
न्तु मा त्मा नं था नेकृ ता तिः