६.९५.१२

जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः ।
स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ॥

पदच्छेदः

जगामजगाम (√गम् लिट् प्र.पु. एक.)
तद् (१.१)
महींमही (२.१)
भित्त्वाभित्त्वा (√भिद् + क्त्वा)
दशग्रीवध्वजंदशग्रीव–ध्वज (२.१)
शरःशर (१.१)
तद् (१.१)
निकृत्तोनिकृत्त (√नि-कृत् + क्त, १.१)
ऽपतद्अपतत् (√पत् लङ् प्र.पु. एक.)
भूमौभूमि (७.१)
रावणस्यरावण (६.१)
रथध्वजःरथ–ध्वज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गा हीं भि त्त्वा
ग्रीध्व जं रः
नि कृ त्तोऽप द्भू मौ
रास्यध्व जः