६.९५.१४

स रोषवशमापन्नः शरवर्षं महद्वमन् ।
रामस्य तुरगान्दिव्याञ्शरैर्विव्याध रावणः ॥

पदच्छेदः

तद् (१.१)
रोषवशम्रोष–वश (२.१)
आपन्नःआपन्न (√आ-पद् + क्त, १.१)
शरवर्षंशर–वर्ष (२.१)
महद्महत् (२.१)
वमन्वमत् (√वम् + शतृ, १.१)
रामस्यराम (६.१)
तुरगान्तुरग (२.३)
दिव्याञ्दिव्य (२.३)
शरैर्शर (३.३)
विव्याधविव्याध (√व्यध् लिट् प्र.पु. एक.)
रावणःरावण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रो मा न्नः
र्षंद्व मन्
रास्यतु गा न्दि व्या
ञ्श रै र्वि व्या रा णः