६.९५.२१

व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।
प्रहसन्निव काकुत्स्थः संदधे सायकाञ्शितान् ॥

M N Dutt

Beholding Rāvana in the encounter thus actively engaged in the discharged of arrows, Kakuthstha, smiling set up pointed shafts, and discharged them by hundreds and thousands.

पदच्छेदः

व्यायच्छमानंव्यायच्छमान (√व्या-यम् + शानच्, २.१)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तत्परंतद्–पर (२.१)
रावणंरावण (२.१)
रणेरण (७.१)
प्रहसन्न्प्रहसत् (√प्र-हस् + शतृ, १.१)
इवइव (अव्ययः)
काकुत्स्थःकाकुत्स्थ (१.१)
संदधेसंदधे (√सम्-धा लिट् प्र.पु. एक.)
सायकाञ्सायक (२.३)
शितान्शित (√शा + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

व्याच्छ मा नं तं दृ ष्ट्वा
त्प रं रा णं णे
प्रन्नि का कु त्स्थः
सं धे सा काञ्शि तान्