६.९५.२२

स मुमोच ततो बाणान्रणे शतसहस्रशः ।
तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥

पदच्छेदः

तद् (१.१)
मुमोचमुमोच (√मुच् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
बाणान्बाण (२.३)
रणेरण (७.१)
शतसहस्रशःशत–सहस्रशस् (अव्ययः)
तान्तद् (२.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रावणश्चक्रेरावण (१.१)–चक्रे (√कृ लिट् प्र.पु. एक.)
स्वशरैःस्व–शर (३.३)
खं (२.१)
निरन्तरम्निरन्तर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु मो तो बा णा
न्र णेस्र शः
ता न्दृ ष्ट्वा रा श्च क्रे
स्व रैः खंनिन्त रम्