६.९५.५

रक्षसां रावणं चापि वानराणां च राघवम् ।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥

अन्वयः

रावणम् Ravana, पश्यताम् seeing, विस्मिताक्षाणाम् astonished, रक्षसाम् of Rakshasa, राघवम् Raghava, वानराणां च Vanaras also, सैन्यम् army, चित्रमिव wonderful picture, अबभौ remained as though

M N Dutt

The Rakşasas beholding Rāvana, and the monkeys beholding Rāma with wonder-stricken eyes, the whole army appeared like a picture.

Summary

The army of Rakshasas was looking at Ravana and the Vanaras were looking at Raghava with astonishment as though it was a wonderful picture.

पदच्छेदः

रक्षसांरक्षस् (६.३)
रावणंरावण (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
वानराणांवानर (६.३)
(अव्ययः)
राघवम्राघव (२.१)
पश्यतांपश्यत् (√दृश् + शतृ, ६.३)
विस्मिताक्षाणांविस्मित (√वि-स्मि + क्त)–अक्ष (६.३)
सैन्यंसैन्य (१.१)
चित्रम्चित्र (१.१)
इवाबभौइव (अव्ययः)–आबभौ (√आ-भा लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष सां रा णं चापि
वा रा णां रा वम्
श्य तां विस्मि ता क्षा णां
सै न्यं चित्रमि वा भौ