६.९५.६

तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ ।
कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् ॥

अन्वयः

तौ both, रावणौ Ravana, तत्र there, निमित्तानि portents, दृष्टवा on seeing, कृतबुद्धी firm in mind, स्थिरामर्षौ indignation, अभीतवत् fearless, युयुधाते fought

M N Dutt

And expieing all omens Rāghava and Rāvaņa began to fight undaunted, firm, resolute and unagitated by anger.

Summary

Both Ravana and Rama, seeing their portents, firmly resolved in mind with indignation, fought fearlessly.

पदच्छेदः

तौतद् (१.२)
तुतु (अव्ययः)
तत्रतत्र (अव्ययः)
निमित्तानिनिमित्त (२.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
राघवरावणौराघव–रावण (१.२)
कृतबुद्धीकृतबुद्धि (१.२)
स्थिरामर्षौस्थिर–अमर्ष (१.२)
युयुधातेयुयुधाते (√युध् लिट् प्र.पु. द्वि.)
अभीतवत्अभीत–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौतुत्रनि मि त्तानि
दृ ष्ट्वा रा रा णौ
कृ बु द्धीस्थि रा र्षौ
युयु धा ते भी वत्