६.९६.१

तौ तथा युध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥

अन्वयः

समरे in war, तथा thus, युध्यमनौ fighting, रामरावणौ Rama and Ravana, सर्वभूतानि all beings, विस्मितेन with astonishment, अन्तरात्मना in mind, ददृशुः observed

Summary

As Rama and Ravana were thus fighting in war, all beings watched with astonishment in mind.

पदच्छेदः

तौतद् (२.२)
तथातथा (अव्ययः)
युध्यमानौयुध्यमान (√युध् + शानच्, २.२)
तुतु (अव्ययः)
समरेसमर (७.१)
रामरावणौराम–रावण (२.२)
ददृशुःददृशुः (√दृश् लिट् प्र.पु. बहु.)
सर्वभूतानिसर्व–भूत (१.३)
विस्मितेनान्तरात्मनाविस्मित (√वि-स्मि + क्त, ३.१)–अन्तरात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौ था युध्य मा नौतु
रे रा रा णौ
दृ शुःर्व भू तानि
विस्मि ते नान्त रात्म ना