६.९६.११

चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ।
सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥

अन्वयः

दशाननः Ten headed, वज्रहस्तस्य with thunderbolt like hands, सारथिम् charioteer, उद्दिश्य aimed, पुनःagain, वज्रपातसमस्वनान् equal to thunder, बाणान् arrow, चिक्षेप struck

Summary

The ten headed Ravana with his thunderbolt like hands hurled arrows and struck the charioteer of Rama, making sounds like thunder.

पदच्छेदः

चिक्षेपचिक्षेप (√क्षिप् लिट् प्र.पु. एक.)
(अव्ययः)
पुनर्पुनर् (अव्ययः)
बाणान्बाण (२.३)
वज्रपातसमस्वनान्वज्र–पात–सम–स्वन (२.३)
सारथिंसारथि (२.१)
वज्रहस्तस्यवज्रहस्त (६.१)
समुद्दिश्यसमुद्दिश्य (√समुत्-दिश् + ल्यप्)
निशाचरःनिशाचर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चि क्षेपु र्बा णा
न्वज्र पास्व नान्
सा थिंज्र स्तस्य
मु द्दिश्यनि शा रः