६.९६.२१

तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ।
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ॥

पदच्छेदः

तच्छिरःतद् (१.१)–शिरस् (१.१)
पतितंपतित (√पत् + क्त, १.१)
भूमौभूमि (७.१)
दृष्टंदृष्ट (√दृश् + क्त, १.१)
लोकैस्त्रिभिस्तदालोक (३.३)–त्रि (३.३)–तदा (अव्ययः)
तस्यैवतद् (६.१)–एव (अव्ययः)
सदृशंसदृश (१.१)
चान्यद् (अव्ययः)–अन्य (१.१)
रावणस्योत्थितंरावण (६.१)–उत्थित (√उत्-स्था + क्त, १.१)
शिरःशिरस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छि रःति तं भू मौ
दृ ष्टं लो कैस्त्रि भिस्त दा
स्यैदृ शं चान्य
द्रा स्योत्थि तंशि रः