६.९६.८

रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।
चतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत् ॥

अन्वयः

ततः there upon, रामः Rama, धनुर्मुस्तै: stretching the bow, चतुर्भिःfour, शितैःsharp, शरैः arrows, रावणस्य at Ravana, दीप्तान् glowing, चतुरः four, हयान् horses, प्रत्यसर्पयत् drove back

M N Dutt

Rāma with four sharpened arrows shot off his bow, removed the flaming horses of Rāvana to some distance.

Summary

Thereupon, Rama, stretching the bow, released four sharp glowing arrows at Ravana's four horses and drove them back.

पदच्छेदः

रावणस्यरावण (६.१)
ततोततस् (अव्ययः)
रामोराम (१.१)
धनुर्मुक्तैःधनुस्–मुक्त (√मुच् + क्त, ३.३)
शितैःशित (√शा + क्त, ३.३)
शरैःशर (३.३)
चतुर्भिश्चतुरोचतुर् (३.३)–चतुर् (२.३)
दीप्तान्दीप्त (√दीप् + क्त, २.३)
हयान्हय (२.३)
प्रत्यपसर्पयत्प्रत्यपसर्पयत् (√प्रत्यप-सर्पय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य तो रा मो
नु र्मु क्तैःशि तैः रैः
तु र्भिश्चतु रो दी प्ता
न्ह या न्प्रत्यर्प यत्