६.९७.१०

वज्रसारं महानादं नानासमितिदारुणम् ।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥

अन्वयः

वज्रसारम् strong as thunderbolt, महानादम् loud sounding, नानासमितिदारणम् dispersing every deceitful kind of army, सर्ववित्रासनम् frightening all kinds of beings, श्वसन्तम् hissing, पन्नगम् serpent, इव like

Summary

Strong as thunderbolt, loud sounding, dispersing every deceitful kind of army, frightening to all kinds of beings, hissing like a serpent.

पदच्छेदः

वज्रसारंवज्र–सार (२.१)
महानादंमहत्–नाद (२.१)
नानासमितिदारुणम्नाना (अव्ययः)–समिति–दारुण (२.१)
सर्ववित्रासनंसर्व–वित्रासन (२.१)
भीमंभीम (२.१)
श्वसन्तम्श्वसत् (√श्वस् + शतृ, २.१)
इवइव (अव्ययः)
पन्नगम्पन्नग (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्र सा रं हा ना दं
ना नामिति दारु णम्
र्व वि त्रा नं भी मं
श्वन्तमिन्न गम्