६.९७.१९

स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः ।
कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् ॥

अन्वयः

सःशरः that arrow, रावणम् Ravana, हत्वा on killing, रुधिरार्द्रीकृतच्छविः soaked in blood, कृतकर्मा having accomplished the task, निभृतवत् quietly, स्वतूणीम् its quiver, पुनः again, अविशत् reentered

M N Dutt

That shaft, slaying Răvaņa soaked in blood and successful, again entered the quiver* humbly. *In some texts there is "na punaravisat" i.e. did not enter the quiver.

Summary

That arrow of Rama, on killing Ravana, soaked in blood, having accomplished the task quietly reentered its quiver.

पदच्छेदः

तद् (१.१)
शरोशर (१.१)
रावणंरावण (२.१)
हत्वाहत्वा (√हन् + क्त्वा)
रुधिरार्द्रकृतच्छविःरुधिर–आर्द्र–कृत (√कृ + क्त)–छवि (१.१)
कृतकर्माकृत (√कृ + क्त)–कर्मन् (१.१)
निभृतवत्निभृत–वत् (अव्ययः)
स्वतूणींस्व–तूणी (२.१)
पुनर्पुनर् (अव्ययः)
आविशत्आविशत् (√आ-विश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रो रा णं त्वा
रुधि रार्द्रकृच्छ विः
कृ र्मानिभृ
त्स्व तू णींपु रावि शत्