६.९९.२१

सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ।
अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥

पदच्छेदः

सत्यवाक्सत्य–वाच् (१.१)
तद् (१.१)
महाभागोमहाभाग (१.१)
देवरोदेवर (१.१)
मेमद् (६.१)
यद्यद् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
अयंइदम् (१.१)
राक्षसमुख्यानांराक्षस–मुख्य (६.३)
विनाशःविनाश (१.१)
पर्युपस्थितःपर्युपस्थित (√पर्युप-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्य वाक्स हा भा गो
दे रो मेब्र वीत्
यं राक्ष मु ख्या नां
वि ना शःर्युस्थि तः