६.९९.३

ननु नाम महाबाहो तव वैश्रवणानुज ।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ॥

अन्वयः

महाबाहो mighty armed, वैश्रवणानुज brother of Visrava, क्रुद्धस्य in anger, तव your, प्रमुखे chief, स्थातुम् to stand, पुरन्दरःअपि even Purandara, त्रस्यति fears, ननुनाम well known

M N Dutt

O you of huge arms! O younger brother of Baishravana! Even Purandara feared to stand before you when enraged.

Summary

"O mighty armed Ravana! O, brother of Visrava! When in anger even Purandara was afraid to stand before you, it is well known."

पदच्छेदः

ननुननु (अव्ययः)
नामनाम (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
तवत्वद् (६.१)
वैश्रवणानुजवैश्रवणानुज (८.१)
क्रुद्धस्यक्रुद्ध (√क्रुध् + क्त, ६.१)
प्रमुखेप्रमुख (७.१)
स्थातुंस्थातुम् (√स्था + तुमुन्)
त्रस्यत्यपित्रस्यति (√त्रस् लट् प्र.पु. एक.)–अपि (अव्ययः)
पुरंदरःपुरंदर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु ना हा बा हो
वैश्र णानु
क्रु द्ध स्यप्रमु खे स्था तुं
त्र स्यत्यपिपु रं रः