६.९९.४

ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ।
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥

अन्वयः

तव your, उद्वेगात् for fear, महान्तः great, ऋषयः seers, यशस्विनः illustrious, गन्धर्वाश्च Gandharvas also, चारणाः Charanas, दिशः directions, गताः went, ननुनाम is well known

M N Dutt

The great Rşis-the far-famed Gandharvas and the charanas, fled away to different quarters in your fear.

Summary

"For fear of you, even great seers, illustrious Gandharvas, Charanas also went in all directions, is well known."

पदच्छेदः

ऋषयश्चऋषि (१.३)–च (अव्ययः)
महीदेवामही–देव (१.३)
गन्धर्वाश्चगन्धर्व (१.३)–च (अव्ययः)
यशस्विनःयशस्विन् (१.३)
ननुननु (अव्ययः)
नामनाम (अव्ययः)
तवोद्वेगाच्चारणाश्चत्वद् (६.१)–उद्वेग (५.१)–चारण (१.३)–च (अव्ययः)
दिशोदिश् (२.३)
गताःगत (√गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्च ही दे वा
न्ध र्वाश्चस्वि नः
नु ना वो द्वे गा
च्चा णाश्चदि शो ताः