६.९९.३१

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ।
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥

पदच्छेदः

तंतद् (२.१)
प्रश्रितस्प्रश्रित (१.१)
ततोततस् (अव्ययः)
रामंराम (२.१)
श्रुतवाक्योश्रुत (√श्रु + क्त)–वाक्य (१.१)
विभीषणःविभीषण (१.१)
विमृश्यविमृश्य (√वि-मृश् + ल्यप्)
बुद्ध्याबुद्धि (३.१)
धर्मज्ञोधर्म–ज्ञ (१.१)
धर्मार्थसहितंधर्म–अर्थ–सहित (२.१)
वचःवचस् (२.१)
रामस्यैवानुवृत्त्यर्थम्राम (६.१)–एव (अव्ययः)–अनुवृत्ति–अर्थ (२.१)
उत्तरंउत्तर (२.१)
प्रत्यभाषतप्रत्यभाषत (√प्रति-भाष् लङ् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तं प्रश्रिस्त तो रा मंश्रु वा क्यो
वि भी णःवि मृश्य बु द्ध्या र्म ज्ञो
र्मार्थहि तं चः रा स्यै वा
नु वृ त्त्यर्थ मुत्त रं प्रत्य भा