७.१.१

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।
आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् ॥

M N Dutt

On the Rākṣasas having been slain, all the ascetics, for the purpose of congratulating Rāghava, came to Rāma as he gained (back) his kingdom.

पदच्छेदः

प्राप्तराज्यस्यप्राप्त (√प्र-आप् + क्त)–राज्य (६.१)
रामस्यराम (६.१)
राक्षसानांराक्षस (६.३)
वधेवध (७.१)
कृतेकृत (√कृ + क्त, ७.१)
आजग्मुर्आजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)
ऋषयःऋषि (१.३)
सर्वेसर्व (१.३)
राघवंराघव (२.१)
प्रतिनन्दितुम्प्रतिनन्दितुम् (√प्रति-नन्द् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्राप्त रा ज्यस्य रास्य
राक्ष सा नां धेकृ ते
ग्मुरृ यः र्वे
रा वंप्रतिन्दि तुम्