७.१.२

कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च ।
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥

पदच्छेदः

कौशिकोकौशिक (१.१)
ऽथअथ (अव्ययः)
यवक्रीतोयवक्रीत (१.१)
रैभ्यश्च्यवनरैभ्य (१.१)–च्यवन (१.१)
एवएव (अव्ययः)
(अव्ययः)
कण्वोकण्व (१.१)
मेधातिथेःमेधातिथि (६.१)
पुत्रःपुत्र (१.१)
पूर्वस्यांपूर्व (७.१)
दिशिदिश् (७.१)
येयद् (१.३)
श्रिताःश्रित (√श्रि + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कौशि कोऽथ क्री तो
रै भ्यश्च्य
ण्वो मे धाति थेः पु त्रः
पू र्व स्यांदिशि येश्रि ताः