७.१.१७

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥

M N Dutt

By good fortune it is, O Rama, that he than whose proportions there are no other's greater on earth, even Kumbhakarņa, was brought downy (by you).

पदच्छेदः

यस्ययद् (६.१)
प्रमाणाद्प्रमाण (५.१)
विपुलंविपुल (१.१)
प्रमाणंप्रमाण (१.१)
नेह (अव्ययः)–इह (अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
दिष्ट्यादिष्टि (३.१)
तेत्वद् (६.१)
समरेसमर (७.१)
रामराम (८.१)
कुम्भकर्णोकुम्भकर्ण (१.१)
निपातितःनिपातित (√नि-पातय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यप्र मा णाद्विपु लं
प्र मा णं ने विद्य ते
दि ष्ट्या ते रे रा
कुम्भ र्णोनि पाति तः