७.१.१८

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।
देवतानामवध्येन विजयं प्राप्तवानसि ॥

M N Dutt

By good luck it is that you had been encountered in a hand-to-hand combat with that foremost of Rākşasas, incapable of being slain by the celestials themselves; and achieved victory (ultimately).

पदच्छेदः

दिष्ट्यादिष्टि (३.१)
त्वंत्वद् (१.१)
राक्षसेन्द्रेणराक्षस–इन्द्र (३.१)
द्वन्द्वयुद्धम्द्वंद्व–युद्ध (२.१)
उपागतःउपागत (√उपा-गम् + क्त, १.१)
देवतानाम्देवता (६.३)
अवध्येनअवध्य (३.१)
विजयंविजय (२.१)
प्राप्तवान्प्राप्तवत् (√प्र-आप् + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि ष्ट्या त्वं राक्ष से न्द्रे
द्वन्द्व युद्धमु पा तः
दे ता ना ध्ये
वि यं प्राप्त वासि