७.१.३

स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा ।
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥

पदच्छेदः

स्वस्त्यात्रेयश्चस्वस्त्यात्रेय (१.१)–च (अव्ययः)
भगवान्नमुचिःभगवत् (१.१)–नमुचि (१.१)
प्रमुचुस्तथाप्रमुचु (१.१)–तथा (अव्ययः)
आजग्मुस्तेआजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)–तद् (१.३)
सहागस्त्यासह (अव्ययः)–अगस्त्य (१.३)
येयद् (१.३)
श्रिताश्रित (√श्रि + क्त, १.३)
दक्षिणांदक्षिण (२.१)
दिशम्दिश् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्व स्त्या त्रेश्च वा
न्नमु चिःप्रमु चुस्त था
ग्मु स्ते हा स्त्या
येश्रि ताक्षि णांदि शम्