७.१.२३

श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् ।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥

M N Dutt

Hearing the speech of the ascetics of sacred souls, Rāma, coming under the influence of a mighty wonder, said with joined hands.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
वचनंवचन (२.१)
तेषाम्तद् (६.३)
ऋषीणांऋषि (६.३)
भावितात्मनाम्भावितात्मन् (६.३)
विस्मयंविस्मय (२.१)
परमंपरम (२.१)
गत्वागत्वा (√गम् + क्त्वा)
रामःराम (१.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु नं ते षा
मृ षी णां भावि तात्म नाम्
विस्म यं मं त्वा
रा मः प्राञ्जलिब्र वीत्