७.१०.१३

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥

M N Dutt

Well-pleased, the Pitamaha Brahmā came there along with the celestials. 'O Ten-necked one,' said (the Great-father), 'I am well-pleased with you.

पदच्छेदः

पितामहस्तुपितामह (१.१)–तु (अव्ययः)
सुप्रीतःसु (अव्ययः)–प्रीत (√प्री + क्त, १.१)
सार्धंसार्धम् (अव्ययः)
देवैर्देव (३.३)
उपस्थितःउपस्थित (√उप-स्था + क्त, १.१)
वत्सवत्स (८.१)
वत्सवत्स (८.१)
दशग्रीवदशग्रीव (८.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
ऽस्मीत्यभ्यभाषतअस्मि (√अस् लट् उ.पु. )–इति (अव्ययः)–अभ्यभाषत (√अभि-भाष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तास्तु सु प्री तः
सा र्धं दे वैरुस्थि तः
त्सत्स ग्री
प्री तो ऽस्मी त्यभ्य भा