७.१०.१८

न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि मे सर्वे प्राणिनो मानुषादयः ॥

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
चिन्ताचिन्ता (१.१)
ममान्येषुमद् (६.१)–अन्य (७.३)
प्राणिष्वमरपूजितप्राणिन् (७.३)–अमर–पूजित (√पूजय् + क्त, ८.१)
तृणभूतातृण–भूत (√भू + क्त, १.३)
हिहि (अव्ययः)
मेमद् (६.१)
सर्वेसर्व (१.३)
प्राणिनोप्राणिन् (१.३)
मानुषादयःमानुष–आदि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि चि न्ता मा न्येषु
प्रा णिष्व पूजि
तृ भू ताहि मे र्वे
प्राणि नो मानु षा यः