७.१०.१९

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं राम सह देवैः पितामहः ॥

M N Dutt

Thus accosted by the Rākşasa the Ten-necked one-that righteous-souled one, the great-father, along with the celestials, said.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
दशग्रीवेणदशग्रीव (३.१)
रक्षसारक्षस् (३.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
वचनंवचन (२.१)
रामराम (८.१)
सहसह (अव्ययः)
देवैःदेव (३.३)
पितामहःपितामह (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु र्मा त्मा
ग्री वेक्ष सा
वा नं रा
दे वैःपि ता हः