७.१०.२०

भविष्यत्येवमेवैतत्तव राक्षसपुंगव ।
शृणु चापि वचो भूयः प्रीतस्येह शुभं मम ॥

पदच्छेदः

भविष्यत्येवम्भविष्यति (√भू लृट् प्र.पु. एक.)–एवम् (अव्ययः)
एवैतत्एव (अव्ययः)–एतद् (१.१)
तवत्वद् (६.१)
राक्षसपुंगवराक्षस–पुंगव (८.१)
शृणुशृणु (√श्रु लोट् म.पु. )
चापि (अव्ययः)–अपि (अव्ययः)
वचोवचस् (२.१)
भूयःभूयस् (अव्ययः)
प्रीतस्येहप्रीत (√प्री + क्त, ६.१)–इह (अव्ययः)
शुभंशुभ (२.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ष्य त्ये मे वै
त्त राक्ष पुं
शृणु चापि चो भू यः
प्री स्येशु भं