७.१०.३

कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः ।
तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः ॥

पदच्छेदः

कुम्भकर्णस्तदाकुम्भकर्ण (१.१)–तदा (अव्ययः)
यत्तोयत्त (√यत् + क्त, १.१)
नित्यंनित्यम् (अव्ययः)
धर्मपरायणःधर्म–परायण (१.१)
ततापतताप (√तप् लिट् प्र.पु. एक.)
ग्रैष्मिकेग्रैष्मिक (७.१)
कालेकाल (७.१)
पञ्चस्वग्निष्ववस्थितःपञ्चन् (७.३)–अग्नि (७.३)–अवस्थित (√अव-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कुम्भ र्णस्त दा त्तो
नि त्यंर्म रा णः
ता ग्रैष्मि के का ले
ञ्च स्व ग्निष्वस्थि तः