७.१०.४

वर्षे मेघोदकक्लिन्नो वीरासनमसेवत ।
नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः ॥

पदच्छेदः

वर्षेवर्ष (७.१)
मेघोदकक्लिन्नोमेघ–उदक–क्लिन्न (√क्लिद् + क्त, १.१)
वीरासनम्वीरासन (२.१)
असेवतअसेवत (√सेव् लङ् प्र.पु. एक.)
नित्यंनित्यम् (अव्ययः)
(अव्ययः)
शैशिरेशैशिर (७.१)
कालेकाल (७.१)
जलमध्यप्रतिश्रयःजल–मध्य–प्रतिश्रय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षे मे घो क्लि न्नो
वी रा से
नि त्यं शैशि रे का ले
ध्यप्र तिश्र यः