७.१०.३४

वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ।
लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः ॥

M N Dutt

Do you then, o lord having immeasurable prowess, pretending to give him a boon, give stupefaction (instead). Thereby the welfare of the people would be secured, and the honour of this one too shall be maintained.

पदच्छेदः

वरव्याजेनवर–व्याज (३.१)
मोहोमोह (१.१)
ऽस्मैइदम् (४.१)
दीयताम्दीयताम् (√दा प्र.पु. एक.)
अमितप्रभअमित–प्रभा (८.१)
लोकानांलोक (६.३)
स्वस्तिस्वस्ति (२.१)
चैव (अव्ययः)–एव (अव्ययः)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
अस्यइदम् (६.१)
(अव्ययः)
संनतिःसंनति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

व्या जे मो हो ऽस्मै
दी तामिप्र
लो का नां स्वस्ति चै स्या
द्भ वेस्य सं तिः