७.१०.३५

एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः ।
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥

M N Dutt

Thus addressed by the celestials, Brahmā, the Lotus-sprung one, pondered. The goddess, Sarasvatī, who was by his side was also agitated by anxiety.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
सुरैर्सुर (३.३)
ब्रह्माचिन्तयत्ब्रह्मन् (१.१)–अचिन्तयत् (√चिन्तय् लङ् प्र.पु. एक.)
पद्मसंभवःपद्मसंभव (१.१)
चिन्तिताचिन्तित (√चिन्तय् + क्त, १.१)
चोपतस्थे (अव्ययः)–उपतस्थे (√उप-स्था लिट् प्र.पु. एक.)
ऽस्यइदम् (६.१)
पार्श्वंपार्श्व (२.१)
देवीदेवी (१.१)
सरस्वतीसरस्वती (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तःसु रै र्ब्र ह्मा
चिन्त त्पद्म सं वः
चिन्ति ता चो स्थेऽस्य
पा र्श्वं दे वीस्व ती