७.१०.६

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥

M N Dutt

The virtuous Vibhīşaņa, ever intent on virtue and pure of spirit, remained standing on one leg for five thousand years.

पदच्छेदः

विभीषणस्तुविभीषण (१.१)–तु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
नित्यंनित्यम् (अव्ययः)
धर्मपरःधर्म–पर (१.१)
शुचिःशुचि (१.१)
पञ्चवर्षसहस्राणिपञ्चन्–वर्ष–सहस्र (२.३)
पादेनैकेनपाद (३.१)–एक (३.१)
तस्थिवान्तस्थिवस् (√स्था + क्वसु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भीस्तु र्मा त्मा
नि त्यंर्म रःशु चिः
ञ्चर्ष स्राणि
पा दे नै केस्थि वान्