७.१०.७

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥

M N Dutt

When he had completed (his term of restriction), swarms of apsaras danced, and blossoms showered, and the deities hymned (him).

पदच्छेदः

समाप्तेसमाप्त (√सम्-आप् + क्त, ७.१)
नियमेनियम (७.१)
तस्यतद् (६.१)
ननृतुश्चाप्सरोगणाःननृतुः (√नृत् लिट् प्र.पु. बहु.)–च (अव्ययः)–अप्सरस्–गण (१.३)
पपातपपात (√पत् लिट् प्र.पु. एक.)
पुष्पवर्षंपुष्प–वर्ष (१.१)
(अव्ययः)
क्षुभिताश्चापिक्षुभित (√क्षुभ् + क्त, १.३)–च (अव्ययः)–अपि (अव्ययः)
देवताःदेवता (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा प्तेनि मेस्य
नृ तु श्चाप्स रो णाः
पा पुष्प र्षं
क्षुभि ता श्चापि दे ताः