७.१००.१३

सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् ।
साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम् ॥

पदच्छेदः

सर्वंसर्व (१.१)
हृष्टंहृष्ट (√हृष् + क्त, १.१)
प्रमुदितंप्रमुदित (√प्र-मुद् + क्त, १.१)
सर्वंसर्व (१.१)
पूर्णमनोरथम्पूर्ण (√पृ + क्त)–मनोरथ (१.१)
साधुसाधु (२.१)
साध्वितिसाधु (२.१)–इति (अव्ययः)
तत्तद् (१.१)
सर्वंसर्व (१.१)
त्रिदिवंत्रिदिव (१.१)
गतकल्मषम्गत (√गम् + क्त)–कल्मष (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वं हृ ष्टंप्रमुदि तं
र्वं पूर्ण नो थम्
साधु साध्विति त्स र्वं
त्रिदि वंल्म षम्