७.१००.२१

अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ।
मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत ॥

M N Dutt

Having bathed there, given up their lives delightedly and renounced their human forms they ascended the celestial cars.

पदच्छेदः

अवगाह्यअवगाह्य (√अव-गाह् + ल्यप्)
जलंजल (२.१)
योयद् (१.१)
यःयद् (१.१)
प्राणीप्राणिन् (१.१)
ह्यासीत्हि (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
प्रहृष्टवत्प्रहृष्ट (√प्र-हृष् + क्त)–वत् (अव्ययः)
मानुषंमानुष (२.१)
देहम्देह (२.१)
उत्सृज्यउत्सृज्य (√उत्-सृज् + ल्यप्)
विमानंविमान (२.१)
सोतद् (१.१)
ऽध्यरोहतअध्यरोहत (√अधि-रुह् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गाह्य लं यो यः
प्रा णी ह्या सीत्प्र हृष्ट वत्
मानु षं दे मु त्सृज्य
वि मा नं सोऽध्य रो