७.११.२

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥

M N Dutt

And wrought up with exceeding great wrath, the counsellors of that Rākşasas-Mārīca and Prahasta and Virūpākṣa and Mahodara-also rose up.

पदच्छेदः

मारीचश्चमारीच (१.१)–च (अव्ययः)
प्रहस्तश्चप्रहस्त (१.१)–च (अव्ययः)
विरूपाक्षोविरूपाक्ष (१.१)
महोदरःमहोदर (१.१)
उदतिष्ठन्उदतिष्ठन् (√उत्-स्था लङ् प्र.पु. बहु.)
सुसंरब्धाःसु (अव्ययः)–संरब्ध (√सम्-रभ् + क्त, १.३)
सचिवास्तस्यसचिव (१.३)–तद् (६.१)
रक्षसःरक्षस् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा री श्चप्र स्तश्च
वि रू पा क्षो हो रः
ति ष्ठन्सु सं ब्धाः
चि वा स्तस्यक्ष सः