७.११.३६

न हि क्षमं त्वया तेन वैरं धनद रक्षसा ।
जानीषे हि यथानेन लब्धः परमको वरः ॥

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
क्षमंक्षम (१.१)
त्वयात्वद् (३.१)
तेनतद् (३.१)
वैरंवैर (१.१)
धनदधनद (८.१)
रक्षसारक्षस् (३.१)
जानीषेजानीषे (√ज्ञा लट् म.पु. )
हिहि (अव्ययः)
यथानेनयथा (अव्ययः)–इदम् (३.१)
लब्धःलब्ध (√लभ् + क्त, १.१)
परमकोपरमक (१.१)
वरःवर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हिक्ष मंत्व या ते
वै रंक्ष सा
जा नी षेहि था ने
ब्धः को रः