७.११.४१

धनेश्वरस्त्वथ पितृवाक्यगौरवा;न्न्यवेशयच्छशिविमले गिरौ पुरीम् ।
स्वलंकृतैर्भवनवरैर्विभूषितां; पुरंदरस्येव तदामरावतीम् ॥

M N Dutt

The lord of riches, for the sake of his father's dignity, dwelt in a palace situated on the hill bright as moon-light, graced with ornamented superb piles; even as Purandara dwells in Amaravati.

पदच्छेदः

धनेश्वरस्त्वथधनेश्वर (१.१)–तु (अव्ययः)–अथ (अव्ययः)
पितृवाक्यगौरवान्पितृ–वाक्य–गौरव (५.१)
न्यवेशयच्छशिविमलेन्यवेशयत् (√नि-वेशय् लङ् प्र.पु. एक.)–शशिन्–विमल (७.१)
गिरौगिरि (७.१)
स्वलंकृतैर्सु (अव्ययः)–अलंकृत (√अलम्-कृ + क्त, ३.३)
भवनवरैर्भवन–वर (३.३)
विभूषितांविभूषित (√वि-भूषय् + क्त, २.१)
पुरंदरस्येवपुरंदर (६.१)–इव (अव्ययः)
तदामरावतीम्तदा (अव्ययः)–अमरावती (२.१)

छन्दः

रुचिरा [१३: जभसजग]

छन्दोविश्लेषणम्

१०१११२१३
नेश्वस्त्वपितृ वाक्य गौ वा
न्न्य वेच्छशिवि लेगि रौपु रीम्
स्व लंकृ तैर्भ रैर्वि भूषि तां
पु रं स्ये दा रा तीम्