७.१२.१५

ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः ।
दातुं दुहितरं तस्य रोचयामास तत्र वै ॥

M N Dutt

Thus accosted, O Rama, by that lord of Raks asas, that Dänava and foremost of Dānavas, Maya; learning that he was the son of Maharsi, Paulastya, there desired in his heart to give away his daughter to him.

पदच्छेदः

ब्रह्मर्षेस्तंब्रह्मर्षि (६.१)–तद् (२.१)
सुतंसुत (२.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
मयोमय (१.१)
हर्षम्हर्ष (२.१)
उपागतःउपागत (√उपा-गम् + क्त, १.१)
दातुंदातुम् (√दा + तुमुन्)
दुहितरंदुहितृ (२.१)
तस्यतद् (६.१)
रोचयामासरोचयामास (√रोचय् प्र.पु. एक.)
तत्रतत्र (अव्ययः)
वैवै (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र ह्म र्षे स्तंसु तं ज्ञा त्वा
योर्षमु पा तः
दा तुंदुहि रंस्य
रो या मात्र वै