७.१२.१६

प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।
इयं ममात्मजा राजन्हेमयाप्सरसा धृता ।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥

M N Dutt

This daughter of mine, O king, O king, borne by the Apsarā, Hemā, this my daughter named Mandodari do you accept as my wife.

पदच्छेदः

प्रहसन्प्रहसत् (√प्र-हस् + शतृ, १.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
दैत्येन्द्रोदैत्य–इन्द्र (१.१)
राक्षसेन्द्रम्राक्षस–इन्द्र (२.१)
इदंइदम् (२.१)
वचःवचस् (२.१)
इयंइदम् (१.१)
ममात्मजामद् (६.१)–आत्मजा (१.१)
राजन्राजन् (८.१)
हेमयाप्सरसाहेमा (३.१)–अप्सरस् (३.१)
धृताधृत (√धृ + क्त, १.१)
कन्याकन्या (१.१)
मन्दोदरीमन्दोदरी (१.१)
नामनाम (अव्ययः)
पत्न्यर्थंपत्नी–अर्थ (२.१)
प्रतिगृह्यताम्प्रतिगृह्यताम् (√प्रति-ग्रह् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
प्र न्प्रा दै त्ये न्द्रो राक्ष सेन्द्र
मि दं चः यं मात्म जा रा
न्हे याप्स साधृ ता न्या न्दो
री ना त्न्य र्थंप्रति गृह्य ताम्