७.१२.२८

जडीकृतायां लङ्कायां तेन नादेन तस्य वै ।
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥

M N Dutt

O Rāghava, Lankā was petrified at his voice: and (accordingly) his sire himself kept his name, Meghanāda.

पदच्छेदः

जडीकृतायांजडीकृत (√जडी-कृ + क्त, ७.१)
लङ्कायांलङ्का (७.१)
तेनतद् (३.१)
नादेननाद (३.१)
तस्यतद् (६.१)
वैवै (अव्ययः)
पितापितृ (१.१)
तस्याकरोन्नामतद् (६.१)–अकरोत् (√कृ लङ् प्र.पु. एक.)–नामन् (२.१)
मेघनादमेघनाद (१.१)
इतिइति (अव्ययः)
स्वयम्स्वयम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

डीकृ ता यां ङ्का यां
ते ना देस्य वै
पि ता स्या रो न्ना
मे ना तिस्व यम्