७.१२.८

तस्याः कृते च हेमायाः सर्वं हेमपुरं मया ।
वज्रवैदूर्यचित्रं च मायया निर्मितं तदा ॥

पदच्छेदः

तस्याःतद् (६.१)
कृतेकृते (अव्ययः)
(अव्ययः)
हेमायाःहेमा (६.१)
सर्वंसर्व (१.१)
हेमपुरंहेमन्–पुर (१.१)
मयामद् (३.१)
वज्रवैदूर्यचित्रंवज्र–वैडूर्य–चित्र (१.१)
(अव्ययः)
माययामाया (३.१)
निर्मितंनिर्मित (√निः-मा + क्त, १.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याःकृ ते हे मा याः
र्वं हेपु रं या
ज्र वै दूर्य चि त्रं
मा या निर्मि तं दा