७.१३.२३

का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।
रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती ॥

पदच्छेदः

का (१.१)
न्वियंनु (अव्ययः)–इदम् (१.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
शुभाशुभ (१.१)
(अव्ययः)
खल्वन्येनखलु (अव्ययः)–अन्य (३.१)
हेतुनाहेतु (३.१)
रूपंरूप (२.१)
ह्यनुपमंहि (अव्ययः)–अनुपम (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
तत्रतत्र (अव्ययः)
क्रीडतिक्रीडति (√क्रीड् लट् प्र.पु. एक.)
पार्वतीपार्वती (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कान्वि यं स्यादितिशु भा
ल्व न्ये हेतु ना
रू पंह्यनु मं कृ त्वा
त्र क्रीति पार्व ती