७.१३.३

विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।
अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ॥

पदच्छेदः

विनियुक्तास्ततोविनियुक्त (√विनि-युज् + क्त, १.३)–ततस् (अव्ययः)
राज्ञाराजन् (३.१)
शिल्पिनोशिल्पिन् (१.३)
विश्वकर्मवत्विश्वकर्मन्–वत् (अव्ययः)
अकुर्वन्अकुर्वन् (√कृ लङ् प्र.पु. बहु.)
कुम्भकर्णस्यकुम्भकर्ण (६.१)
कैलाससमम्कैलास–सम (२.१)
आलयम्आलय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विनि यु क्तास्त तो रा ज्ञा
शिल्पि नो विश्वर्म वत्
कु र्व न्कुम्भ र्णस्य
कै ला मा यम्