७.१३.४

विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥

पदच्छेदः

विस्तीर्णंविस्तीर्ण (√वि-स्तृ + क्त, २.१)
योजनंयोजन (२.१)
शुभ्रंशुभ्र (२.१)
ततोततस् (अव्ययः)
द्विगुणम्द्विगुण (२.१)
आयतम्आयत (√आ-यम् + क्त, २.१)
दर्शनीयंदर्शनीय (२.१)
निराबाधंनिराबाध (२.१)
कुम्भकर्णस्यकुम्भकर्ण (६.१)
चक्रिरेचक्रिरे (√कृ लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि स्ती र्णं यो नं शु भ्रं
तोद्विगु मा तम्
र्श नी यंनि रा बा धं
कुम्भ र्णस्यक्रि रे