७.१३.३१

एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ।
आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥

पदच्छेदः

एवंएवम् (अव्ययः)
तेनतद् (३.१)
सखित्वंसखी–त्व (२.१)
(अव्ययः)
प्राप्यानुज्ञांप्राप्य (√प्र-आप् + ल्यप्)–अनुज्ञा (२.१)
(अव्ययः)
शंकरात्शंकर (५.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
(अव्ययः)
श्रुतोश्रुत (√श्रु + क्त, १.१)
ऽयंइदम् (१.१)
मेमद् (४.१)
तवत्वद् (६.१)
पापविनिश्चयःपाप–विनिश्चय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं ते खि त्वं
प्रा प्या नु ज्ञां शं रात्
म्यश्रु तो ऽयं मे
पावि निश्च यः