७.१३.७

तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः ।
बहून्यब्दसहस्राणि शयानो नावबुध्यते ॥

M N Dutt

There, overcome with slumber, the wondrous strong Kumbhakarņa, lying down for many thousand years, did not wake up.

पदच्छेदः

तत्रतत्र (अव्ययः)
निद्रांनिद्रा (२.१)
समाविष्टःसमाविष्ट (√समा-विश् + क्त, १.१)
कुम्भकर्णोकुम्भकर्ण (१.१)
निशाचरःनिशाचर (१.१)
बहून्यब्दसहस्राणिबहु (२.३)–अब्द–सहस्र (२.३)
शयानोशयान (√शी + शानच्, १.१)
नावबुध्यते (अव्ययः)–अवबुध्यते (√अव-बुध् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र नि द्रां मा वि ष्टः
कुम्भ र्णोनि शा रः
हू न्यब्द स्राणि
या नो ना बुध्य ते